1. न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
2. अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
3. तपोवनवासिनो देवीति नाम्नाह्वयन्ति।
4. मयापि सम्माननीय एव मुनिनियोगः।
5. अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्।
6. सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं भणति।
7. उपाध्यायदूताः अस्मान् त्वरयति।