1. मञ्चे कति बालकाः उपविष्टाः सन्ति?
2. के कोलाहलं कुर्वन्ति?
3. गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
4. तुन्दिलः कस्य उपरि हस्तम् आवर्तयति?
5. लोके पुनः पुनः कानि भवन्ति?
6. दशमः ग्रहः कः?
7. प्राणान् कः हरति?
8. चितां प्रज्वलितां दृष्ट्वा कः विस्मयम् आगताः?
9. लोके दुर्लभं किमस्ति?
10. सर्वे बालकाः बहिः निष्क्रम्य कुत्र गच्छन्ति?