1. मल्लिका मोदकानि रचयन्ति मन्दस्वरेण शिवस्तुतिं करोति।
2. मोदकगन्धम् अनुभवन् चन्दनः प्रसन्नमनाः प्रविशति।
3. हस्तनिर्मितानि मोदकानि दृष्ट्वा चन्दनः जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः आसीत्।
4. एतानि मोदकानि पूजानिमित्तानि सन्ति।
5. मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति।
6. तया सह. चम्पा, गौरी, माया, मोहिमी, कपिलाद्याः सर्वाः गच्छन्ति।
7. सखिभिः सह धर्मयात्रया आनन्दिता च भव।
8. मल्लिका तु धर्मयात्रायै गता।
9. दुग्धदोहनं कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि।
10. तव मातुलानी तु गङ्गास्नानार्थं काशी गता अस्ति।