1. तदा सा सुदुःखिता गृघ्रं ददर्श।
2. आयतलोचना विलपन्ती सीता वनस्पतिगतं गृधं ददर्श।
3. जटायो! माम् अनाथवत् ह्रियमाणाम् पश्य।
4. आर्य जटायो! अनेन पाकर्मणा राक्षसेन्द्रेण ह्रियमाणाम् मां पश्च।
5. अथ जटायुः तं शब्दं शुश्रुवे।
6. जटायुः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।
7. अथ अवसुप्तः तु जटायुः तं शब्दं शुश्रुवे।
8. ततः तीक्ष्णतुण्डः खगोत्तमः रावणं व्याजहार।
9. अथ पर्वतशृङ्गाभः वनस्पतिगतः श्रीमान् शुभां गिरं व्याजहार।
10. त्वं परदारा अभिमर्शनात् नीचां मतिं निवर्तय।