1. एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्।
2. अस्मिन् संसारसागरे सर्वधनं वीचिवत् चञ्चलम्।
3. सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच।।
4. यथा पृथ्वीम् अदरिद्रां पश्यामि।
5. इति वाक् तस्मात् तरोः उदभूत्।
6. सः कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षत्।
7. तस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
8. त्वया अस्मात् पूर्वेषाम् अभीष्टाः कामाः पूरिताः।
9. त्वया त्यक्तः एषोऽहं यातोऽस्मि।