1. खलानाम् मैत्री छायेव भवति।
2. हंसाः महीमण्डलमण्डलनाय कुत्रापि गच्छेयुः।
3. सरोवराणां हि हानिः भवति।
4. मरालैः सह विप्रयोगः सरोवराणां हानिः भवति।
5. नद्यः आस्वाद्यतोयाः प्रवहन्ति।
6. समुद्रम् आसाद्य जलं अपेयम् भवति।
7. निर्गुणं प्राप्य गुणाः अपि दोषाः भवन्ति।
8. गुणज्ञेषु गुणाः गुणाः भवन्ति।।