1. मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
2. भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
3. आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
4. श्वेतकेतुः वाग्विषये पृच्छति।
5. अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
6. पीतानाम् अपां यः अणिष्ठः सः प्राणः।
7. अशितस्य तेजसा योऽणिष्ठः सा वाक्।
8. अहम् भूयोऽपि श्रोतुमिच्छामि।
9. एतत् सर्वम् हृदयेन अवधारय।
10. मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।